मातर्नमामि कमले कमलायताक्षि, श्रीविष्णुहृत्कमलवासिनि विश्वमातः ।
क्षीरोदजे कमलकोमलगर्भगौरि, लक्ष्मि प्रसीद सततं नमतां शरण्ये ॥1॥
त्वं श्रीरूपेन्द्रसदने मदनैकमात, ज्योत्स्नासि चन्द्रमसि चन्द्रमनोहरास्ये ।
सूर्ये प्रभासि च जगत्त्रितये प्रभासि, लक्ष्मि प्रसीद सततं नमतां शरण्ये ॥2॥
त्वं जातवेदसि सदा दहनात्मशक्ति वैधास्त्वया जगदिदं विविधं विदध्यात् ।
विश्वम्भरोऽपि बिभृयादखिलं भवत्या, लक्ष्मि प्रसीद सततं नमतां शरण्ये ॥3॥
त्वत्यक्तमेतदमले हरते हरोऽपि, त्वं पासि हंसि विदधासि परावरासि ।
ईड्यो बभूव हरिरप्यमले त्वदाप्त्या, लक्ष्मि प्रसीद सततं नमतां शरण्ये ॥4॥
शूरः स एव स गुणी स बुधः स धन्यो, मान्यः स एव कुलशीलकलाकलापैः ।
एकः शुचिः स हि पुमान् सकलेऽपि लोके, यत्रापतेत्तव शुभे करुणाकटाक्षः ॥5॥
यस्मिन्वसेः क्षणमहो पुरुषे गजेऽश्वे, स्त्रैणे तृणे सरसि देवकुले गृहेऽने ।
रत्ने पतत्रिणि पशौ शयने धरायां, सश्रीकमेव सकले तदिहास्ति नान्यत् ॥16॥
त्वत्स्पृष्टमेव सकलं शुचितां लभेत, त्वत्यक्तमेव सकलं त्वशुचीह लक्ष्मि ।
त्वन्नाम यत्र च सुमङ्गलमेव तत्र, श्रीविष्णुपत्नि कमले कमलालयेऽपि ॥7॥
लक्ष्मीं श्रियं च कमलां कमलालयां च, पद्मां रमां नलिनयुग्मकरां च मां च ।
क्षीरोदजाममृतकुम्भकरामिरां च, विष्णुप्रियामिति सदा जपतां क्व दुःखम ॥8॥
ये पठिष्यन्ति च स्तोत्रं त्वद्भक्त्या मत्कृतं सदा ।
तेषां कदाचित् संतापो माऽस्तु माऽस्तु दरिद्रता ॥9॥
माऽस्तु चेष्टवियोगश्च माऽस्तु सम्पत्तिसंक्षयः ।
सर्वत्र विजयश्चाऽस्तु विच्छेदो माऽस्तु सन्ततेः ॥10॥
एवमस्तु मुने सर्वं यत्त्वया परिभाषितम् ।
एतत् स्तोत्रस्य पठनं मम सांनिध्यकारणम् ॥11॥
॥ इस प्रकार स्कन्द पुराण के काशीखण्ड में अगस्तिकृत महालक्ष्मी स्तुति सम्पूर्ण हुई ॥